Thursday, 4 June 2015

विशाद योग



॥ विशाद योग ॥ 


       । धृतराष्ट्र उवाच । 
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १-१॥

        । सञ्जय उवाच ।
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ १-२॥

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ १-३॥

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ १-४॥

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ १-५॥

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ १-६॥

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ १-७॥

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ १-८॥

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ १-९॥

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १-१०॥

अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ १-११॥

तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १-१२॥

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १-१३॥

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १-१४॥

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १-१५॥

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १-१६॥

काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १-१७॥

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ १-१८॥

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ॥ १-१९॥

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः । 
हृषीकेशं तदा वाक्यमिदमाह महीपते ॥ २० ॥ 

       । अर्जुन उवाच ।
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ १-२१॥

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥ १-२२॥

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ १-२३॥

      । सञ्जय उवाच ।
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ १-२४॥

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ १-२५॥

तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि । ॥ १-२६॥


तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् । 
कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥ १-२७॥

        । अर्जुन उवाच ।
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् । 
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ॥ १-२८॥

वेपथुश्च शरीरे मे रोमहर्षश्च जायते 
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते ।॥ १-२९॥

न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः
निमित्तानि च पश्यामि विपरीतानि केशव  ॥ १-३०॥

न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे 
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ॥ १-३१॥

किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा 
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ॥ १-३२॥
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च 
आचार्याः पितरः पुत्रास्तथैव च पितामहाः ॥ १-३३॥
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा 
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ॥ १-३४॥
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते । 
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन॥ १-३५॥

पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः।
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् । 
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ १-३६॥

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः 
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ १-३७॥
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् 
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ १-३८॥

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ १-३९॥

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः 
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः॥ १-४०॥

सङ्करो नरकायैव कुलघ्नानां कुलस्य च 
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ १-४१ ॥

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः  ॥ १-४२॥

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन 
नरके नियतं वासो भवतीत्यनुशुश्रुम॥ १-४३॥

अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ १-४४ ॥

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ १-४५ ॥

        सञ्जय उवाच ।
एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ १-४६ ॥ 

No comments:

Post a Comment